रवीन्द्रे
संस्कृतं संस्कृते च रवीन्द्रः
राधावल्लभः
त्रिपाठी
1919 तमे
ख्रिस्ताब्दे केरलेषु आलवाई आश्रमे कवीन्द्रस्य रवीन्द्रस्य आगमनमभवत्। मलयालम्-भाषायास्तदानीन्तनो
मूर्धन्यः साहित्यकारो महाकविः कुमारन् आसान् तस्य प्रशस्तौ संस्कृतेन
स्वागतपञ्चकम् इति काव्यकुसुमाञ्जलिं प्रणीय प्रास्तावीत्। स च काव्यकुसुमाञ्जलिः
इत्थमासीत् –
ददाति यः
कुम्भभुवे गृहं स्वयं
रथं
सुखस्पर्शमपीक्षुधन्वने।
नदद्द्विजातस्य
गिरेर्वनावली
कवीन्द्र तावत्
कुशलं ब्रवीति ते।।
इयं च यद् रोधसि
शङ्करः शुचौ
कृतावतारः
परहंसपुङ्गवः।
स्रोतोरवः स्वागतसूक्तमङ्ग
ते
तरङ्गतालैस्तटिनी
प्रगायति।।
उपत्यकास्त्वद्य
भवन्तमागतं
सह्यस्य
चैलामरिचैकवाससः।
फलैश्च
पुष्पैर्भृशमर्घ्यपाणयो
नमन्ति
भूमेस्तरुगुल्मसम्पदः।।
आधूतकेशे
मरुदप्युपागते
मार्दङ्गिकत्वं
चरमे महोदधौ।
तरङ्गतन्त्रीं
सरितं विलोडयन्
भवन्तमुच्चैरुपवीणयत्यसौ।।
रोमाञ्चयन्
गोभिरहो सचेतसः
पुरश्च पश्चाच्च
समन्ततो जनान्।
गीताञ्जलेर्गायक
एष दृश्यते
सचक्षुषः स्मः
सशरत्सखो रविः।।[1]
अयं कुमार आसानः केरलीयो
महाकविः। आङ्ग्लभाषायामपि स कर्तुं शक्नुयात् प्रशस्तिम्। परन्तु तथा नाकरोत्।
रवीन्द्रनाथो मलयालम्भाषां नावगच्छेत्, तस्य प्रशस्तिः कया भाषया करणीयेति
विचिकित्सायां कवीन्द्रस्य रवीन्द्रनाथस्य संस्कृतानुरागं विचार्य संस्कृतं स शिश्रिये। इत्थं केरलीया धरा बङ्गकविं संस्कृतेन अवन्दत। अन्तिमे
पद्ये पुनरत्यन्तं रुचिकरं श्लेषं प्रायोजि कुमारेण आसानेन। रविः सशरत्सखः इति
कथनेन शरदृतोः सखा रविः भास्करो वा बोध्यते तथैव बङ्गभाषाया महान् कथाकारः शरच्चन्द्रो& पि द्योत्यते, तस्य
च रवीन्द्रनाथेन सख्यमपि सूच्यते। गोभी रोमाञ्चयन् इति कथनेन रविः सूर्यः गोभिः
किरणैः शरदि रोमाञ्चं जनयति इति भावः, रविसदृशो रवीन्द्रनाथश्च गोभिर्वाग्भी
रोमाञ्चं जनयति सहृदयानामिति च रवीन्द्रनाथ पक्षे& र्थः।
रवीन्द्रनाथस्य साहित्यं
संस्कृतकाव्यालोकेन भासितम्, तत्र द्विशताधकं कविताः कालिदासस्य मेघदूतेन प्रेरिताः
विलसन्ति। तस्य निबन्धेषु संस्कृतसाहित्यं प्राणिति। संस्कृतकवीनां अभिव्यक्तय
अहमहमिकया परापतन्ति। 1890तमे ख्रिस्ताब्दे ऊनत्रिंशद्वर्षीयेन तेन मेघदूतमिति
कविता व्यरचि। 1892तमे त्रिंशद्वर्षकल्पेन तेन मेघदूतमधिकृत्य निबन्धो विरचितः। अनन्तरं
पञ्चत्रिंशद्वर्शकल्पस्य तस्य मेघदूतमधिकृत्य सानेटरचना प्रकटिता।
चत्वारिंशवर्षावस्थायां स नववर्षेति
शीर्षेण निबन्धं व्यरचयत् एकचत्वारिंशद्वर्षीयश्च बाजेरकथेति निबन्धम्। उभयत्र मेघदूतस्य
छाया लसति। 1922तमे ख्रिस्ताब्दे एकषष्टिवर्षीयस्य रवीन्द्रनाथस्य लघुकथा
मेघदूतमाश्रित्य प्रवर्तिता, तथैव
1932तमात् वर्षात् आ 1938तमादब्दात् तस्य त्रीणि काव्यानि मेघदूतविषयकाणि।[2]
इत्थं यपवावस्थाया आरभ्य जीवनस्य अन्तिमदशां यावन्महाकवी रवीन्द्रः कालिदासं तदीयं
मेघदूतं च भावयन्नास। कालिदाससाहित्ये
सविशेषमस्य मनो रेमे। तस्य कवितासु निबन्धेषु आलोचनात्मके समीक्षात्मके वा
साहित्ये कालिदासाभिनिवेशः स्फुटीभवति। कालिदासीया उपमाः कल्पनाश्च मुहुर्मुहुस्तदीये
काव्ये प्रतिफलिताः। वस्तुतो रवीन्द्रनाथस्य वंशजाः परिवारजनाश्च सर्वे
कालिदासकाव्यमर्मज्ञा आसन्। तस्य सर्वे& प्यग्रजाः
कालिदासानुरागिणो& भवन्। तेषु ज्येष्ठः युगप्रवर्तको मनीषी
द्विजेन्द्रनाथठक्कुरो मेघदूतं बङ्गभाषया पद्यैरनूदितवान्। बहुभाषाविद् ज्योरिन्द्रनाथः
कालिदासीयरूपकाणां बङ्गभाषानुवादान् व्यधत्त। अतश्च आ शैशवादेव कालिदासप्रेमलता
रवीन्द्रनाथस्य मनोभुवि अङ्कुरिता। कालिदासीयान् श्लोकान् पाठं पाठं तान्
हृदयङ्गमं कृत्वा कृत्वा स अमन्दानन्दसन्दोहे न्यमज्जत्। ‘जीवनस्मृति’ इति आत्मकथात्मके
स्वोपज्ञे प्रबन्धे तेन लिखितम् –
‘शैशवे कालिदासश्लोकैर्मम चित्तमान्दोलितम्। ...गङ्गासैकतस्थितमूलाजोडस्थिताया
-मुद्यानवाटिकायां प्रायशो मेघोदये अग्रजो मे भवनचन्द्रशालायां
मेघदूतावृत्तिमकरोत्। तस्यार्थबोधनेन नासीन्मे प्रयोजनम्।
तस्यानन्दसन्दोहपरिपूर्णानां छन्दसामुच्चारणमेव मत्कृते अलमभवत्।.. अथ काले गते कुमारसम्भवस्य
–
मन्दाकिनीलसैकतनिर्झराणां
वोढा मुहुः कम्पितदेवदारुः।
यद्वायुरन्विष्टमृगैः किरातैरासेव्यते
भिन्नशिखण्डिबर्हः ---
इति श्लोकपाठानन्तरमेव
मे मनो नितरां हर्षोत्फुल्लं जातम्। न कश्चिदपि मयाधिगतो भावार्थः, तथापि केवलम् ‘मन्दाकिनीनिर्झर--
’ ‘कम्पितदेवदारुः--’ इति पदद्वयेनैव
आवर्जितं निखिलं मे मनः।’
1303तमे बङ्गाब्दे
रवीन्द्रनाथस्य चैतालीति काव्यसङ्कलनं प्रकाशितम्। तत्र मानसलोक इति कविता वर्तते।
अस्यां कवितायां कालिदासस्य शाश्वतिकतां
स्थापयन् कवीन्द्रो रवीन्द्रो निगदति – मानसकैलासशृङ्गे
निर्जनभुवने
छिले
तुमि महेशेर मन्दिर प्रांगणे
ताँहार
आपन कवि , कवि कालिदास
नीलकण्ठद्युतिमय
स्निग्धनीलाभास
चिरस्थिर
आषाढेर घन मेघदले ज्योतिर्मय
सप्तर्षिरतपोलोकतले
आजिओ
मानसधामे करिछ वसति
चिरदिन
रवे सेथा ओहे कविपति
शंकरचरितगाने
भरिआ भुवन।।
मानसीति काव्यसङ्कने वर्तते तदीया
मेघदूत इति शीर्षकान्विता कविता। तत्र मेघदूतस्य स्वारस्यं भावजगत् अत्यन्तं तन्मयीभवनदशायाम्
अवगाह्य रवीन्द्रनाथेन विशदीकृतम्। दीर्घेयं
रचना, दिङ्मात्रं तत उदाह्रियते –
कविवर कबे कोन
विस्मृत वरषे
कोन पुण्य आषाढेर
दिवसे
लिखेछिले मेघदूत,
मेघमन्द्रश्लोक
विश्वेर विरही यत
सकलेर शोक
राखियाछे आपन
आँधआर स्तरे स्तरे
सघनसंगीत माँझे
पुंजीभूत करे।
....
गंभीर निर्घोष सेइ
मेघसंघर्षेर
जागाये तुलियाछिल
सहस्र वर्षेर
अंतर्मूढ वाष्पाकुल
विच्छेदक्रंदन
एक दिने। छिन्न
करि कालेर बंधन
चिरदिवसेर येन
रुद्ध अश्रुजल
आर्द्र करि तोमार
उदार श्लोकराशि।।
......
..................कोथा
आछे
सानुमान् आम्रकूट,
केथआ वहियाछे
विमल विशीर्ण रेवा
विंध्यपदमूले
उपलव्यथितगति,
वेत्रवती कूले
परिणतश्याम
जंबूवनच्छाये
कोथाय दशार्ण
ग्राम रहेथे लुकाये
प्रस्फुटितकेतकीर
बेड़ादये घेरा
समग्रापि कवितेयं मेघदूतस्य सौन्दर्यलोके विचरति,
कालिदासीयकाव्यसुधां नवीनकाव्यपात्रे सन्निधायपयति च। युक्तमुक्तं रवीन्द्रनाथसाहित्यमर्मज्ञेन
समीक्षकप्रवरेण एडवर्डथाम्पसनमहोदयेन इमां कवितामुद्दिश्य –
‘As Dante looked across his countries and hailed Virgil
as Master, as Spenser overlooked two hundred years of poetical fumbling and
claimed succession to Chaucer, as Milton in his turn saluted his dear master
Spenser, so Rabindranath turned back to Kalidasa. After this he is to pay such
homage often, glad to acknowledge so dear an allegiance’[3]
वस्तुतः कथं
कालिदासो रवीन्द्रनाथस्य कस्यां कस्यां पङ्क्तौ अवतीर्णः, कस्यां कस्यां
रवीन्द्रनाथीयकवितायां कालिदासीया बिम्बा स्फुटिताः, कालिदासीया कल्पना कथं रवीन्द्रनाथसाहित्यं
संसकुर्वन्नित्यत्र महदध्यवसायाभिवेशपूर्वकमनुसन्धानमपेक्षितम्। कालिदासीयः
काव्यरसो निषिञ्चति रवीन्द्रनाथसाहित्योपवनम्। कालिदाससाहित्येन रवीन्द्रनाथस्य
स्वप्नलोको विनिर्मितः। कालिदासीया नायिकास्तं मोहयन्ति, मुहुर्मुहुस्तदीये
काव्यसंसारे समवतरन्ति। श्रीविशाला विशाला (उज्जयिनी) कालिदासायालमरोचत, रवीन्द्रनाथस्य
तु सा स्वप्ननगरी। तत्र मम कापि जन्मजन्मान्तरसहचरी प्रिया निवसतीति असौ विभावयति --
दूरे बहु दूरे
स्वप्नलोके
उज्जयिनी पुरे
खुँजिते गेछिनु
कवे शिप्रानदीपारे
मोर पूर्वजन्मेर
प्रथम प्रियाके
मुखे तार लोध्र
रेणु, लीला पद्म हाते
कर्णमूले कुंदकलि,
कुरवक माथे
.....
वसन्तेर दिने
फिरेछिनु बहुदूरे
पथ चिने चिने
महाकाल मन्दिरेर
माझे
तखन गंभीर मन्दरे
संध्यारति बाजे।
--
(कल्पना स्वप्न)[4]
रवीन्द्रनाथस्य षड्ऋतुनिरूपणपरायां
ऋतुरंगनाट्यशालेति नृत्यनाटिकायाम् कालिदासीयो ऋतुसंहारः सङ्क्रान्तः। रवीन्द्रमानसे
कालिदासश्चिरन्तनः अजरो& मरश्च नित्यं समुच्छवसिति। मानसलोक इति
काव्ये रवीन्द्रः कथयति –
मानससरस्स्तीरे
केलासगिरिशिखरे
निर्जनभुवने
ह्यासीर्महेशमन्दिराङ्गणे।
नीलकण्ठद्युतेस्तुल्यं
सुस्निग्धनीलभासिते।
आषाढस्य
चिरस्थायिघनमेघदले तथा।
तपोलोकतले ज्योती
रूपसप्तार्षिरोचिषाम्।।
अद्यापि कुरुषे
वासं मानसधाम्नि हे कवे।[5]
काव्यम् इति कवितायां कालिदासं
सम्बोधयन् कविकुलगुरोरसाधारणं वैशिष्ट्यं विशदीकरोति कवी रवीन्द्रः। कालिदासो& पि जीवनस्य सर्वं
वैषम्यं दृष्टवाननुभूतवानंश्च, परन्तु –
आनन्दसूर्यमुद्दिश्य
सौन्दर्यकमलं तव।
प्रस्फुटितं न
तत्रापि चिह्नं कुत्र च विद्यते।[6]
कुमारसम्भवगानम्, ऋतुसंहारः
मेघदूतम् इति कवितासु कविवरो रवीन्द्रः कालिदासस्य रचनाप्रक्रियां विशदीकरोति।
कुमारसम्भवगानम् इत कवितायां कालिदासस्य कवितां देवी पार्वती सस्मितं च
वेदनानिर्भरं च शृणोति, कुमारस्य शिखी
नतपुच्छः तिष्ठति, तदानीं सौदामनी स्तब्धा मेघगर्जितं च स्तिमितम् इति मार्मिकं चित्रं रवीन्द्रनाथेनाङ्कितम्। तदानीन्तनकाल
इति कवितायां यद्यहं जनिमलप्स्यम् कालिदासस्य काले तदा& हमपि
कविकुलगुरुरिव अनश्नरतायां शादनां अकरिष्यमिति कविः स्वमतिमभिव्यानक्। आनन्दसूर्यमुद्दिश्य
सौन्दर्यकमलं तव।
रवीन्द्रनाथस्य रूपकेषु चित्राङ्गदा
महाभारतीयेन वृत्तेन अनुप्राणिता। प्राचीनसाहित्य इति स्वकीये पुस्तके
रवीन्द्रनाथेन वाल्मीकि-व्यास-कालिदास-बाणभट्टानां कृतित्वमधिकृत्य यादृशी
सुविचारिता समीक्षा प्रस्तुता, सा समग्रे& पि शतके
संस्कृतसाहित्यानुशीलनाय उपजीव्या अभवत्।
रवीन्द्रनाथेन
विहिताः कालिदासस्य अन्येषां च संस्कृतसाहत्यांशानामनुवादा अद्यापि हृदयं
स्पृशन्ति। मूलकाव्यस्य सौन्दर्यं ते साक्षात्कारयन्ति। क्वचित्तु समधिकतरं
माधुर्यसौकुमार्यसमन्वितां विधाय कालिदासकवितां रवीन्द्रो& नूदितवान्। यथा न
खलु न खलु बाणः सन्निपात्यो& यमस्मिन्नति शाकुन्तलीयस्य
पद्यस्यायमनुवादः –
मृदु ए
मृगदेहे
मेरो
ना शर
आगुन
देवे के हे
फुलेर
पर
कोथा
हे महाराज
मृगेर
प्राण
कोथाय
येन बाज
तोमार
बाण।
संस्कृतकाव्यालोकेन
भास्वराः रवीन्द्रनाथस्य मौलिकरचनाः
संस्कृतानुवादेषु अतीव रुचिकरा बाभान्ति। अत एव यावन्तो& नुवादाः रवीन्द्ररचनानां
क्रियेरन् तावन्त एव अल्पाः।
तस्य रचनाः
संस्कृतभावभूमिं बहुधा स्पृशन्ति, संस्कृतसाहित्यरसिकान् कालिदासादीनां कृतीरिव
अनुसन्धानाय अनुवादाय च आह्वयन्ति इति युक्तमेव रवीन्द्रसाहित्यस्य अनुवादाय नैके
संस्कृतपण्डिताः प्रायतन्त। रवीन्द्रनाथस्य कृतीनां शाब्दिकाः, भावपूर्णाः पुनारचनात्मकाश्च परःशतं
अनुवादा सुधीभी रचनादक्षैरनुवादकैर्विहिताः। तत्र ये मूलबङ्गभाषाया
अनुवादमकुर्वन्, मूलकाव्यस्य लयं छन्दश्चापि संस्कृते समवतारयितुं प्रायतन्त,
तेषामनुवादे अपरो विशेषः, ये संस्कृतच्छन्दस्सु रवीन्द्रकाव्यमन्ववदन्,
तेषामनुवादे अपरः। तथाहि गीताञ्जलेः प्रथमेयं गीतिः –
आमार माथा नत करे
दाओ हे तोमार
चरणधूलीरतले
सकल अहंकार हे
आमार
डुबाओ चोखेर जले।
अधिकारीवर्येण
गीतयः संस्कृतच्छन्दःसु अनूदिताः। एतासां पङ्क्तीनां तदीयो& नुवादो वर्तते –
शीर्षं मे तव पादसक्तरजसां नीचैः
प्रभो धारय।
सर्वं गर्वचयं ममाहमिति मे
नेत्राम्बुभिः प्लावय।।
अत्र छन्दोनुरोधात्
किमपि वैशिष्ट्यं लयभेदश्च अनुवादं वृणुते।
काश्यपकवेः कालीपदतर्काचार्यस्य
अनुवादः
मम शीर्षं नय
नतिम्
अयि तव चरणरेणुतले
सकलमहङ्कारं मम
मज्जयाक्षिदले
अथ रवीन्द्रनाथस्य चित्त जेथा भयशून्य इतीयं प्रार्थना
अनुवाददृशा विचार्यते। अस्मद्गुरुवर्यस्य विश्वनाथभट्टाचार्यस्य अनुवादस्त्वित्थम् -
चित्तं यत्र भयान्मुक्तमुच्चैश्च
राजते शिरः।
ज्ञानं मुक्तं च
यत्रास्ते प्राचीराणि गृहस्य च।
शकलीकृत्य वसुधां
स्वप्राङ्गणतले सदा।
यत्र प्रकुर्वते
नैनां क्षुद्रां च न च खण्डिताम्।।
यत्रोच्छ्वसन्ति
वाक्यानि हृदयोत्समुखात् सदा।
यत्र कर्मप्रवाहो& पि
स्रोतोवदनिवारितः।
देशे देशे तथा
दिक्षु विदिक्षु चैव सर्वतः।
धावत्यजस्रामसंख्यां
सार्थतां प्रति सर्वदा।।
आचारैर्यत्र
तुच्छैश्च मरुरेतःकणैरिव।
विचारस्रोतसो
मार्गो ग्रस्तश्च न कदाचन।।
पौरुषं न कृतं
दीर्णं शतधा यत्र सर्वदा।
कृत्स्नचिन्तानन्दकर्मनायकस्त्वमसि
स्वयम्।
स्वहस्तेनाहत्य
सुदृढं स्वर्गे तत्रैव हे पितः
समुद्बोधय देशं
त्वमिमं भारतसंज्ञितम्।।[7]
रामप्रसन्नभट्टचार्येणापि अनुष्टुपा
अनुवादो विहितः, स चानुवादो विश्वनाथभट्टाचार्यस्यानुवादं प्रायो& नुहरति। तथाहि –
भयशून्यं
यतश्चित्तम् उच्चं यत्र शिरस्तथा।
ज्ञानं मुक्तं यतो
गेहप्राचीरं च दिवानिशम्।।
स्वस्यप्राङ्गणभूम्यां
च खण्डीकृत्य वसुन्धराम्।
क्षुद्रीकृत्य तथा
यत्र स्थापितवान् न कुत्र वा।।
हृदयाच्च
मुखाद्यत्र वाक्यमुच्छवसितं भवेत्।
निर्बाधस्रोतसां
यत्र कर्मधारा प्रधावति।।
दिशि दिशि तथा
देशे देशे चाजस्रधारया।
चरितार्थतया यत्र
न ग्रसेन्मरुबालुका।।
शुष्काचारस्य
पन्थानं विचारस्रोतसस्तथा।।
पौरुषं शतधा खण्डं
यत्र कृतवती नहि।
नित्यं यत्र स्वयं
त्वं हि सकलकर्मणां तथा।।
चिन्तनानां च
सर्वेषाम् आनन्ददायकः स्थितः।
कृत्वा& & घातं स्वहस्तेन
निर्दयं त्वं हि मे पितः।
जागरय च त्वं
स्वर्गं इदं भारतमण्डलम्।। [8]
गीताञ्जलेरनुवादकेषु
गोपालपिल्लै तथा च के. रामकृष्णवारियरः आङ्ग्लभाषाया अनुवादं कृतवन्तौ। तत्रापि
वारियरेण अनुष्टुब्रचनायां दक्षतया अनुवादः सम्यक् साधितः। उभयोः अनुवादा
उदाह्रियेते, प्रथमं पिल्लैवर्यस्य –
यत्र
विनिर्भयमुदयति हृदयं
यत्रोदात्तो
मूर्धोदेति
यत्र प्रसरति परितो
ज्ञानं
परं
स्वातन्त्र्यविधानम्
सङ्कुचिताभिर्गृहभित्तिभिरपि
यत्र न भिन्नं
छिन्नं भवनम्
यत्र प्रादुःषन्ति
न वाचः
परमार्थस्यागाधगुहातः
यत्र तान्तो यत्तो
बाहुः
परिपूर्णत्यायाममयति
यत्र हि युक्तेर्वाचोमय्याः
नैव विनश्यति
विमला तटिनी
प्रेतप्राचीनाचारमये
मरुसैकतविस्तारे
तिमिरे
सततविसृत्वरचिन्तनकर्मसु
पुरतो नयसे यत्र
मनस्त्वं
स्वातन्त्र्यस्य
स्वर्गे तस्मिन्
प्रतिबुध्येत
पितर्मम राष्ट्रम्।
इति।
अथ
वारियरस्यानुवादः
यत्रास्ति निर्भयं
चित्तमुन्नतं शीर्षकं तथा।
ज्ञानं स्वतन्त्रमेवास्ति
यत्र गार्हिकभित्तिभिः।।
तनुभिर्नहि विच्छिन्नं
भुवनं खण्डशस्तथा।
बहिरायाति सत्यस्य
गाम्भीर्याच्छब्दसञ्चयः।।
परिपूर्णत्वमुद्दिश्य
यत्राश्रान्तप्रवर्तनम्।
दीर्घीकरोति
स्वभुजौ निर्मला युक्तिनिम्नगा।।3।।
विचल्य मार्गतो
यत्र निरानन्दं च निर्जनम्।
मृताचारमरुं नैव
गता यत्र च मानसम्।।4।।
त्वया पुरो
नीतमस्ति तादृशं चेष्टितं तथा।
चिन्तनं प्रति
यत्सर्वं विशालीभूयते सदा।।
स्वातन्त्र्यस्य
हि तत्स्वर्गलोकमुद्दिश्य मत्पितः।
मदीयप्रियदेशस्तु
शीघ्रं जागरितो भवेत्।।[9]
एतेन
मूलबङ्गभाषाया विहितस्यानुवादस्य तदीयानुवादात् विहितानामनुवादानां विशेषो ज्ञातुं
शक्यम्।
[1] साहित्याकादेम्याः इण्डियन लिटरेचर इति
पत्रिकाया 119तमे अङ्के उद्धृतेयं कविता।
[2] इमानि तथ्यानि
राष्ट्रियसंस्कृतसंस्थानस्य संस्कृतविमर्शशोधपत्रिकाया नवशृङ्खलायां पञ्चमे
अङ्के प्राकाशितात् इन्द्रनाथचौधुरीमहोदयस्य कालिदास का मेघदूत और रवीन्द्रनाथ
ठाकुर इति लेखात् उपात्तानि, पृ. 99-110।
[3]
Rabindranath Tagore : Poet and Dranatist, p. 74 विक्रमविश्वविद्यालयस्य विक्रमळोधपत्रिकायाः 1968तमे क्रस्ताबेद प्रकाशिते एकादशे& ङ्के रवीन्दरमानसे कालिदास इति शीर्षकेण प्रकाशइते ध्यानेशनारायणचक्रवर्तिनो
लेखे (पृ. 21-29) उद्धृतम् पृ. 25
[4] विक्रमविश्वविद्यालयस्य विक्रमळोधपत्रिकायाः 1968तमे क्रस्ताबेद
प्रकाशिते एकादशे& ङ्के रवीन्दरमानसे कालिदास इति शीर्षकेण
प्रकाशइते ध्यानेशनारायणचक्रवर्तिनो लेखे (पृ. 21-29) उद्धृतम् पृ. 25
[5] श्रीरवीन्द्रकाव्यकुसुमाञ्जलिः,
दिल्लीसंस्कृत आकादेमी
[6] तत्रैव
[8] श्रीरवीन्द्रकाव्यकुसुमाञ्जलिः,
अनु. रामप्रसन्नभट्टाचार्यः, दिल्लीसंस्कृत अकादेमी
[9]
गीताञ्जलिः,
अनु. के. रामकृष्णवारियर्, चिन्मय इण्टरनेशनलफाउण्डेशनशोधसंस्थआनम्, वेलियनाट्,
2008, पृ.53 पिल्लैवर्यस्यानुवादो& स्यैव के.एच्. सुब्रहमणियन्क-तायां भूमिकायामुद्धृतः।
No comments:
Post a Comment